१७७
पञ्चाशद् ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने ।
वैश्ये स्यादर्धपञ्चाशत्शूद्रे द्वादशको दमः ॥२६८॥
समवर्णे द्विजातीनां द्वादशैव व्यतिक्रमे ।
वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् ॥२६९॥
एकजातिर्द्विजातींस्तु वाचा दारुणया क्षिपन् ।
जिह्वायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः ॥२७०॥
नामजातिग्रहं त्वेषामभिद्रोहेण कुर्वतः ।
निक्षेप्योऽयोमयः शङ्कुर्ज्वलन्नास्ये दशाङ्गुलः ॥२७१॥
धर्मोपदेशं दर्पेण विप्राणामस्य कुर्वतः ।
तप्तमासेचयेत् तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥२७२॥
श्रुतं देशं च जातिं च कर्म शरीरमेव च ।
वितथेन ब्रुवन् दर्पाद् दाप्यः स्याद् द्विशतं दमम् ॥२७३॥
काणं वाऽप्यथ वा खञ्जमन्यं वाऽपि तथाविधम् ।
तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम् ॥२७४॥
मातरं पितरं जायां भ्रातरं तनयं गुरुम् ।
आक्षारयंशतं दाप्यः पन्थानं चाददद् गुरोः ॥२७५॥
ब्राह्मणक्षत्रियाभ्यां तु दण्डः कार्यो विजानता ।
ब्राह्मणे साहसः पूर्वः क्षत्रिये त्वेव मध्यमः ॥२७६॥
विट् शूद्रयोरेवमेव स्वजातिं प्रति तत्त्वतः ।
छेदवर्जं प्रणयनं दण्डस्यैति विनिश्चयः ॥२७७॥
LAW CODE OF MANU—A PAGE OF THE TEXT